भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते ।संप्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ्करणे ॥ १ ॥
मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ २ ॥
नारीस्तनभर नाभीदेशं दृष्ट्वा मागामोहावेशम् ।एतन्मांसावसादि विकारं मनसि विचिन्तय वारं वारम् ॥ ३ ॥
नलिनीदलगत जलमतितरलं तद्वज्जीवितमतिशयचपलं ।विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥ ४ ॥
यावद्वित्तोपार्जन सक्तः तावन्निज परिवारो रक्तः ।पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ॥ ५ ॥
यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे ।गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥ ६ ॥
बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः ।वृद्धस्तावत्चिन्तासक्तः परे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥
काते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तदिह भ्रातः ॥ ८ ॥
सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् ।निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९ ॥
वयसिगते कः कामविकारः शुष्के नीरे कः कासारः ।क्षीणेवित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ॥ १० ॥
मा कुरु धन जन यौवन गर्वं हरति निमेषात्कालः सर्वम् ।मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११ ॥
दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः ।कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥ १२ ॥
द्वादशमञ्जरिकाभिरशेषः कथितो वैयाकरणस्यैषः ।उपदेशोऽभूद्विद्यानिपुणैः श्रीमच्छङ्करभगवच्छरणैः ॥ १२A ॥
काते कान्ता धन गतचिन्ता वातुल किं तव नास्ति नियन्ता ।त्रिजगति सज्जन सङ्गतिरेका भवति भवार्णवतरणे नौका ॥ १३ ॥
जटिलो मुण्डी लुञ्छितकेशः काषायाम्बरबहुकृतवेषः ।पश्यन्नपि चन पश्यति मूढः उदरनिमित्तं बहुकृतवेषः ॥ १४ ॥
अङ्गं गलितं पलितं मुण्डं दशनविहीनं जतं तुण्डम् ।वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥ १५ ॥
अग्रे वह्निः पृष्ठेभानुः रात्रौ चुबुकसमर्पितजानुः ।करतलभिक्षस्तरुतलवासः तदपि न मुञ्चत्याशापाशः ॥ १६ ॥
कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् ।ज्ञानविहिनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥ १७ ॥
सुर मन्दिर तरु मूल निवासः शय्या भूतलमजिनं वासः ।सर्व परिग्रह भोग त्यागः कस्य सुखं न करोति विरागः ॥ १८ ॥
योगरतो वा भोगरतोवा सङ्गरतो वा सङ्गविहीनः ।यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ॥ १९ ॥
भगवद् गीता किञ्चिदधीता गङ्गा जललव कणिकापीता ।सकृदपि येन मुरारि समर्चा क्रियते तस्य यमेन न चर्चा ॥ २० ॥
पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् ।इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ॥ २१ ॥
रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः ।योगी योगनियोजित चित्तो रमते बालोन्मत्तवदेव ॥ २२ ॥
कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः ।इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्न विचारम् ॥ २३ ॥
त्वयि मयि चान्यत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः ।भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २४ ॥
शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ ।सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥ २५ ॥
कामं क्रोधं लोभं मोहं त्यक्त्वाऽत्मानं भावय कोऽहम् ।आत्मज्ञान विहीना मूढाः ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥
गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रम् ।नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥ २७ ॥
सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः ।यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥ २८ ॥
अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यम् ।पुत्रादपि धन भाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ २९ ॥
प्राणायामं प्रत्याहारं नित्यानित्य विवेकविचारम् ।जाप्यसमेत समाधिविधानं कुर्ववधानं महदवधानम् ॥ ३० ॥
गुरुचरणाम्बुज निर्भर भक्तः संसारादचिराद्भव मुक्तः ।सेन्द्रियमानस नियमादेवं द्रक्ष्यसि निज हृदयस्थं देवम् ॥ ३१ ॥
मूढः कश्चन वैयाकरणो डुकृञ्करणाध्ययन धुरिणः ।श्रीमच्छङ्कर भगवच्छिष्यै बोधित आसिच्छोधितकरणः ॥ ३२ ॥
भजगोविन्दं भजगोविन्दं गोविन्दं भजमूढमते ।नामस्मरणादन्यमुपायं नहि पश्यामो भवतरणे ॥ ३३ ॥
इति भजगोविन्दं संपूर्णम्
नलिनीदलगत जलमतितरलं तद्वज्जीवितमतिशयचपलम् ।